Class-7 (रुचिरा) कारकम् (सामान्यपरिचय:) NCERT books/ CBSE Syllabus
कारकम्
(सामान्यपरिचय:)
सामान्यतः षट्कारकाणि भवन्ति । यथा
कर्त्ता
कर्म च करणं सम्प्रदानं तथैव च ।
अपादानाधिकरणम्
इत्याहुः कारकाणि षट् ॥
(i) कर्तृकारकम्
(ii) कर्मकारकम्
(iii) करणकारकम्
(iv) सम्प्रदानकारकम्
(v) अपादानकारकम्
(vi) अधिकरणकारकम्
कर्त्तृकारकम्
स्वतन्त्रः कर्त्ता क्रियायां यः स्वतन्त्रः
प्रधानो वा भवति सः कर्त्ता । यथा- रामः ग्रामं गच्छति। अत्र गमनक्रियायां रामः
स्वतन्त्रः वर्तते, अतः सः कर्तृकारकम् अस्ति।
वाक्ये मुख्य कर्तरि प्रथमा, गौणे कर्तरि च तृतीया विभक्तिः
भवति । यथा
(क) राम: ग्रामं गच्छति। (
ख)
रामेण ग्राम: गम्यते।
कर्मकारकम्
कर्त्तुरीप्सिततमं कर्म कर्त्ता स्वक्रियया
यम् अर्थम् अतिशयेन प्राप्तुम् इच्छति तत् कर्म भवति । यथा-बालक: विद्यालयं
गच्छति। अत्र वाक्ये बालकः कर्त्ता भवति, गमनक्रियया
विद्यालयः तस्य ईप्सिततमं वर्तते, अतः विद्यालय इति
कर्मकारकं वर्तते. कर्मणि द्वितीया विभक्तिः, (कर्मवाच्ये)
मुख्ये च प्रथमा विभक्तिः भवति, यथा
(क) बालक: विद्यालयं गच्छति।
(ख)
बालकेन विद्यालयः गम्यते।
करणकारकम्
साधकतमं करणम्। क्रियासिद्धौ यत् अतिशयेन
सहायकं भवति, तत् करणं भवति, यथा-श्यामः
कलमेन लिखति। अत्र कर्तु: श्यामस्य लेखनक्रियायां कलम: अतिशयेन सहायकः, अतः कलम इति करणकारकं भवति। करणे तृतीया-विभक्तिः भवति ।
सम्प्रदानकारकम्
कर्मणा यमभिप्रैति स सम्प्रदानम् कर्त्ता
दानक्रियया यं सम्बद्धुम् इच्छति तत् सम्प्रदानं भवति । यथा-देवदत्तः भिक्षुकाय
भिक्षां ददाति। अत्र कर्त्ता देवदत्तः दानक्रियया भिक्षुकम् अभिप्रैति सम्बद्धुम्
इच्छति। अतः भिक्षुकपदं सम्प्रदानकारकम् दाने चतुर्थी विभक्तिः भवति।
अपादानकारकम्
ध्रुवमपायेऽपादानम्। अपाये = विभागे,
यत् ध्रुवम् अवधिभूतम् तत् दानं भवति, यथा-
वृक्षात् फलं पतति। अत्र फलस्य विभागः वृक्षात् भवति, अतः वृक्षः
ध्रुवः इति अपादानकारकम् । अपादाने पञ्चमी-विभक्तिः भवति ।
अधिकरणकारकम्-
आधारोऽधिकरणम् कर्तृकर्मनिष्ठक्रियायाः
आधारभूतं यत् वर्तते, तत् करणं भवति, यथा- विद्यालये छात्राः पठन्ति। अत्र कर्तुः पठनक्रियायाः आधार:
मालयः अधिकरणकारकम्। अधिकरणे सप्तमी विभक्तिः भवति।
उपपदविभक्तिः
पदम् आश्रित्य या
विभक्तिः सा उपपदविभक्तिः । यथा-
उभयतः - दोनों तरफ
(द्वितीया) नदीम् उभयतः वृक्षाः सन्ति।
परितः - चारों तरफ
(द्वितीया) विद्यालयं परितः प्राचीरम् अस्ति।
सर्वतः - सभी तरफ (द्वितीया) ग्रामं सर्वतः
कृषिक्षेत्राणि सन्ति।
प्रति - की ओर
(द्वितीया) छात्र: विद्यालयं प्रति गच्छति।
निकषा - समीप में (द्वितीया)
विद्यालयं निकषा उद्यानम् अस्ति।
धिक् - निन्दा (द्वितीया) मूर्ख धिक्।
सह - सहित (तृतीया)
बालिका बालकेन सह खेलति ।
विना - अतिरिक्त
(तृतीया/पञ्चमी/द्वितीया) ज्ञानेन विना जीवनं वृथा।
अलम् - वारण
(तृतीया) विवादेन अलम्।
समर्थ (चतुर्थी)
मल्लः मल्लाय अलम्।
नमः
- नमस्कार (चतुर्थी) पितृदेवाय नमः।
बहिः - बाहर
(पञ्चमी) विद्यालयात् बहि: बालका: खेलन्ति ।
उपरि - ऊपर (पष्ठी)
वृक्षस्य उपरि मर्कटा: क्रीडन्ति ।
अधः – नीचे (पष्ठी)
वृक्षस्य अध: पथिक उपविशति
अन्तः - भीतर (पष्ठी) विद्यालयस्य अन्तः छात्रा: पठन्ति ।
Comments
Post a Comment